Sukta 8.34
आ नो याह्युपश्रुत्युक्थेषु रणया इह । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
आ नो॑ या॒ह्युप॑श्रुत्यु॒क्थेषु॑ रणया इ॒ह । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
ā́ no yāhy úpaśruty uktheṣú raṇaya ihá | divó amúṣya śā́sato dívaṃ yáya divāvaso ||
Come to us, O you who listen close; in our hymns of uplift make the joy resound here. From that heaven’s commanding order, move to the luminous heaven and establish the right gladness in the human field.
आ । नः॒ । या॒हि॒ । उप॑ऽश्रुति । उ॒क्थेषु॑ । र॒ण॒य॒ । इ॒ह । दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥आ । नः । याहि । उपश्रुति । उक्थेषु । रणय । इह । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवावसो ॥ā | naḥ | yāhi | upa-śruti | uktheṣu | raṇaya | iha | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso