Sukta 8.33
नहि षस्तव नो मम शास्त्रे अन्यस्य रण्यति । यो अस्मान्वीर आनयत् ॥
न॒हि षस्तव॒ नो मम॑ शा॒स्त्रे अ॒न्यस्य॒ रण्य॑ति । यो अ॒स्मान्वी॒र आन॑यत् ॥
nahí ṣás tava nó máma śā́stre anyásya ráṇyati | yó asmā́n vīrá ā́ anayat ||
For indeed no other teaching delights—neither yours nor ours—except that heroic leading which brought us forward. It is the inner warrior-guidance alone that gives joy and direction.
न॒हि । सः । तव॑ । नः॒ । मम॑ । शा॒स्त्रे । अ॒न्यस्य॑ । रण्य॑ति । यः । अ॒स्मान् । वी॒रः । आ । अन॑यत् ॥नहि । सः । तव । नः । मम । शास्त्रे । अन्यस्य । रण्यति । यः । अस्मान् । वीरः । आ । अनयत् ॥nahi | saḥ | tava | naḥ | mama | śāstre | anyasya | raṇyati | yaḥ | asmān | vīraḥ | ā | anayat