Sukta 8.33
वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥
व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः । प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ॥
vayáṃ gha tvā sutā́vanta ā́po na vr̥ktábarhiṣaḥ | pavítrasya prasrávaṇeṣu vr̥trahan pári stotā́ra āsate ||
We who have pressed the Soma, with the strewn seat made ready like waters made pure, sit all around you, O slayer of the Coverer, at the outflowings of the filter—awaiting the descent of your force into our clarified currents.
व॒यम् । घ॒ । त्वा॒ । सु॒तऽव॑न्तः । आपः॑ । न । वृ॒क्तऽब॑र्हिषः । प॒वित्र॑स्य । प्र॒ऽस्रव॑णेषु । वृ॒त्र॒ऽह॒न् । परि॑ । स्तो॒तारः॑ । आ॒स॒ते॒ ॥वयम् । घ । त्वा । सुतवन्तः । आपः । न । वृक्तबर्हिषः । पवित्रस्य । प्रस्रवणेषु । वृत्रहन् । परि । स्तोतारः । आसते ॥vayam | gha | tvā | suta-vantaḥ | āpaḥ | na | vṛkta-barhiṣaḥ | pavitrasya | pra-sravaṇeṣu | vṛtra-han | pari | stotāraḥ | āsate