Sukta 8.32
प्र कृतान्यृजीषिणः कण्वा इन्द्रस्य गाथया । मदे सोमस्य वोचत ॥
प्र कृ॒तान्यृ॑जी॒षिण॒: कण्वा॒ इन्द्र॑स्य॒ गाथ॑या । मदे॒ सोम॑स्य वोचत ॥
prá kṛtā́ny ṛjīṣíṇaḥ káṇvā índrasya gā́thayā | máde sómasya vocata ||
Bring forth, O Kaṇvas, by the song the deeds of Indra the straight-driving Force; speak them in the ecstasy of Soma, where power becomes luminous and effective.
प्र । कृ॒तानि॑ । ऋ॒जी॒षिणः॑ । कण्वाः॑ । इन्द्र॑स्य । गाथ॑या । मदे॑ । सोम॑स्य । वो॒च॒त॒ ॥प्र । कृतानि । ऋजीषिणः । कण्वाः । इन्द्रस्य । गाथया । मदे । सोमस्य । वोचत ॥pra | kṛtāni | ṛjīṣiṇaḥ | kaṇvāḥ | indrasya | gāthayā | made | somasya | vocata