Sukta 8.30
ये देवास इह स्थन विश्वे वैश्वानरा उत । अस्मभ्यं शर्म सप्रथो गवेऽश्वाय यच्छत ॥
ये दे॑वास इ॒ह स्थन॒ विश्वे॑ वैश्वान॒रा उ॒त । अ॒स्मभ्यं॒ शर्म॑ स॒प्रथो॒ गवेऽश्वा॑य यच्छत ॥
yé devāsa ihá sthána víśve vaiśvānarā utá | asmábhyaṃ śárma saprátho gáve ’śvā́ya yacchata ||
You gods who are here—All, and the Vaiśvānara powers as well—grant to us a shelter wide and firm, and give the rays of increase: for our light (cattle) and for our energies (horses).
ये । दे॒वा॒सः॒ । इ॒ह । स्थन॑ । विश्वे॑ । वै॒श्वा॒न॒राः । उ॒त । अ॒स्मभ्य॑म् । शर्म॑ । स॒ऽप्रथः॑ । गवे॑ । अश्वा॑य । य॒च्छ॒त॒ ॥ये । देवासः । इह । स्थन । विश्वे । वैश्वानराः । उत । अस्मभ्यम् । शर्म । सप्रथः । गवे । अश्वाय । यच्छत ॥ye | devāsaḥ | iha | sthana | viśve | vaiśvānarāḥ | uta | asmabhyam | śarma | sa-prathaḥ | gave | aśvāya | yacchata