Sukta 8.30
ते नस्त्राध्वं तेऽवत त उ नो अधि वोचत । मा नः पथः पित्र्यान्मानवादधि दूरं नैष्ट परावतः ॥
ते न॑स्त्राध्वं॒ ते॑ऽवत॒ त उ॑ नो॒ अधि॑ वोचत । मा न॑: प॒थः पित्र्या॑न्मान॒वादधि॑ दू॒रं नै॑ष्ट परा॒वत॑: ॥
té nas trādhvaṃ té ’vata tá u no ádhi vocata | mā́ naḥ patháḥ pitryā́n mānavā́d ádhi dūráṃ naiṣṭa parāvátaḥ ||
Protect us; foster us; and speak for us from above. Do not lead us far away from the ancestral path, from the human way—do not cast us into the distant beyond.
ते । नः॒ । त्रा॒ध्व॒म् । ते॒ । अ॒व॒त॒ । ते । ऊँ॒ इति॑ । नः॒ । अधि॑ । वो॒च॒त॒ । मा । नः॒ । प॒थः । पित्र्या॑त् । मा॒न॒वात् । अधि॑ । दू॒रम् । नै॒ष्ट॒ । प॒रा॒ऽवतः॑ ॥ते । नः । त्राध्वम् । ते । अवत । ते । ऊँ इति । नः । अधि । वोचत । मा । नः । पथः । पित्र्यात् । मानवात् । अधि । दूरम् । नैष्ट । परावतः ॥te | naḥ | trādhvam | te | avata | te | oṃ iti | naḥ | adhi | vocata | mā | naḥ | pathaḥ | pitryāt | mānavāt | adhi | dūram | naiṣṭa | parāvataḥ