Sukta 8.3
अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे । सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥
अ॒यं स॒हस्र॒मृषि॑भि॒: सह॑स्कृतः समु॒द्र इ॑व पप्रथे । स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥
ayáṃ sahásram ṛ́ṣi-bhiḥ sáhaḥ-kṛtaḥ samudrá iva paprathé | satyáḥ só asya mahimā́ gṛṇé śávo yajñéṣu vipra-rā́jye ||
This power, made might by a thousand seers, has spread wide like an ocean. True is his greatness; I proclaim his force in the sacrifices, in the sovereignty of the inspired.
अ॒यम् । स॒हस्र॑म् । ऋषि॑ऽभिः । सहः॑ऽकृतः । स॒मु॒द्रःऽइ॑व । प॒प्र॒थे॒ । स॒त्यः । सः । अ॒स्य॒ । म॒हि॒मा । गृ॒णे॒ । शवः॑ । य॒ज्ञेषु॑ । वि॒प्र॒ऽराज्ये॑ ॥अयम् । सहस्रम् । ऋषिभिः । सहःकृतः । समुद्रःइव । पप्रथे । सत्यः । सः । अस्य । महिमा । गृणे । शवः । यज्ञेषु । विप्रराज्ये ॥ayam | sahasram | ṛṣi-bhiḥ | sahaḥ-kṛtaḥ | samudraḥ-iva | paprathe | satyaḥ | saḥ | asya | mahimā | gṛṇe | śavaḥ | yajñeṣu | vipra-rājye