Sukta 8.3
भूयाम ते सुमतौ वाजिनो वयं मा नः स्तरभिमातये । अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥
भू॒याम॑ ते सुम॒तौ वा॒जिनो॑ व॒यं मा न॑: स्तर॒भिमा॑तये । अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा न॑: सु॒म्नेषु॑ यामय ॥
bhūyā́ma te su-matáu vā́jino vayáṃ mā naḥ staḥ abhí-mātaye | asmā́n citrā́bhir avatād abhíṣṭibhir ā́ naḥ sumnéṣu yāmaya ||
May we be more and more in thy good-will, we who seek the plenitudes of force; do not leave us to the assault of the hostile thinker. With thy many-colored helps protect us, and lead us into thy felicities.
भू॒याम॑ । ते॒ । सु॒ऽम॒तौ । वा॒जिनः॑ । व॒यम् । मा । नः॒ । स्तः॒ । अ॒भिऽमा॑तये । अ॒स्मान् । चि॒त्राभिः॑ । अ॒व॒ता॒त् । अ॒भिष्टि॑ऽभिः । आ । नः॒ । सु॒म्नेषु॑ । य॒म॒य॒ ॥भूयाम । ते । सुमतौ । वाजिनः । वयम् । मा । नः । स्तः । अभिमातये । अस्मान् । चित्राभिः । अवतात् । अभिष्टिभिः । आ । नः । सुम्नेषु । यमय ॥bhūyāma | te | su-matau | vājinaḥ | vayam | mā | naḥ | staḥ | abhi-mātaye | asmān | c itrābhiḥ | avatāt | abhiṣṭi-bhiḥ | ā | naḥ | sumneṣu | yamaya