Sukta 8.3
पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । आपिर्नो बोधि सधमाद्यो वृधेऽस्माँ अवन्तु ते धियः ॥
पिबा॑ सु॒तस्य॑ र॒सिनो॒ मत्स्वा॑ न इन्द्र॒ गोम॑तः । आ॒पिर्नो॑ बोधि सध॒माद्यो॑ वृ॒धे॒३॒॑ऽस्माँ अ॑वन्तु ते॒ धिय॑: ॥
píbā sutásya rasíno mátsvā na indra gó-mataḥ | āpír no bodhi sadha-mā́dyo vṛdhé ’smā́n avantu te dhíyaḥ ||
Drink of the pressed Soma’s sap and become glad within us, O Indra of the luminous Rays. Awaken for us as our near helper, the companion in the common ecstasy for our increase; may thy inspired thoughts protect and foster us.
पिबा॑अ॑ । सु॒तस्य॑ । र॒सिनः॑ । मत्स्व॑ । नः॒ । इ॒न्द्र॒ । गोऽम॑तः । आ॒पिः । नः॒ । बो॒धि॒ । स॒ध॒ऽमाद्यः॑ । वृ॒धे॒ । अ॒स्मान् । अ॒व॒न्तु॒ । ते॒ । धियः॑ ॥पिबाअ । सुतस्य । रसिनः । मत्स्व । नः । इन्द्र । गोमतः । आपिः । नः । बोधि । सधमाद्यः । वृधे । अस्मान् । अवन्तु । ते । धियः ॥pibāa | sutasya | rasinaḥ | matsva | naḥ | indra | go--mataḥ | āpiḥ | naḥ | bodhi | sadha-mādyaḥ | vṛdhe | asmān | avantu | te | dhiyaḥ