Sukta 8.28
यथा वशन्ति देवास्तथेदसत्तदेषां नकिरा मिनत् । अरावा चन मर्त्यः ॥
यथा॒ वश॑न्ति दे॒वास्तथेद॑स॒त्तदे॑षां॒ नकि॒रा मि॑नत् । अरा॑वा च॒न मर्त्य॑: ॥
yáthā váśanti devā́s táthéd ásat tádeṣā́m nákir ā́ minat | arā́vā caná mártyaḥ ||
As the gods will and rule, so indeed it becomes; none diminishes their ordinance—no mortal, not even one rich in means.
यथा॑ । वश॑न्ति । दे॒वाः । तथा॑ । इत् । अ॒स॒त् । तत् । ए॒षा॒म् । नकिः॑ । आ । मि॒न॒त् । अरा॑वा । च॒न । मर्त्यः॑ ॥यथा । वशन्ति । देवाः । तथा । इत् । असत् । तत् । एषाम् । नकिः । आ । मिनत् । अरावा । चन । मर्त्यः ॥yathā | vaśanti | devāḥ | tathā | it | asat | tat | eṣām | nakiḥ | ā | minat | arāvā | cana | martyaḥ