Sukta 8.28
सप्तानां सप्त ऋष्टयः सप्त द्युम्नान्येषाम् । सप्तो अधि श्रियो धिरे ॥
स॒प्ता॒नां स॒प्त ऋ॒ष्टय॑: स॒प्त द्यु॒म्नान्ये॑षाम् । स॒प्तो अधि॒ श्रियो॑ धिरे ॥
saptā́nāṃ saptá ṛṣṭáyaḥ saptá dyumnā́ny eṣām | saptó ádhi śríyo dhire ||
Of the Seven, seven are their spear-points, seven their luminous powers; and sevenfold the splendours are set upon them—established as a complete perfection.
स॒प्ता॒नाम् । स॒प्त । ऋ॒ष्टयः॑ । स॒प्त । द्यु॒म्नानि॑ । ए॒षा॒म् । स॒प्तो इति॑ । अधि॑ । श्रियः॑ । धि॒रे॒ ॥सप्तानाम् । सप्त । ऋष्टयः । सप्त । द्युम्नानि । एषाम् । सप्तो इति । अधि । श्रियः । धिरे ॥saptānām | sapta | ṛṣṭayaḥ | sapta | dyumnāni | eṣām | sapto iti | adhi | śriyaḥ | dhire