Sukta 8.28
ते नो गोपा अपाच्यास्त उदक्त इत्था न्यक् । पुरस्तात्सर्वया विशा ॥
ते नो॑ गो॒पा अ॑पा॒च्यास्त उद॒क्त इ॒त्था न्य॑क् । पु॒रस्ता॒त्सर्व॑या वि॒शा ॥
té no gopā́ apācyā́s ta udáktá itthā́ nyàk | purastā́t sárvayā viśā́ ||
May they be our guardians of the Rays—guarding us from the back and from every wrongward turning; from above and from below, and from the front with the whole totality of our being.
ते । नः॒ । गो॒पाः । अ॒पा॒च्याः । ते । उद॑क् । ते । इ॒त्था । न्य॑क् । पु॒रस्ता॑त् । सर्व॑या । वि॒शा ॥ते । नः । गोपाः । अपाच्याः । ते । उदक् । ते । इत्था । न्यक् । पुरस्तात् । सर्वया । विशा ॥te | naḥ | gopāḥ | apācyāḥ | te | udak | te | itthā | nyak | purastāt | sarvayā | viśā