Sukta 8.28
वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः । पत्नीवन्तो वषट्कृताः ॥
वरु॑णो मि॒त्रो अ॑र्य॒मा स्मद्रा॑तिषाचो अ॒ग्नय॑: । पत्नी॑वन्तो॒ वष॑ट्कृताः ॥
váruṇo mitró aryámā smádrātiṣāco agnáyaḥ | patnī́vanto váṣaṭkṛtāḥ ||
Varuṇa, Mitra, and Aryaman—those who move with our offering of right-giving—together with the Fires: yoked with their Shaktis (consorts), they become the powers that bear our will-cry (vaṣaṭ) into fulfilment.
वरु॑णः । मि॒त्रः । अ॒र्य॒मा । स्मद्रा॑तिऽसाचः । अ॒ग्नयः॑ । पत्नी॑ऽवन्तः । वष॑ट्ऽकृटाः ॥वरुणः । मित्रः । अर्यमा । स्मद्रातिसाचः । अग्नयः । पत्नीवन्तः । वषट्कृटाः ॥varuṇaḥ | mitraḥ | aryamā | smadrāti-sācaḥ | agnayaḥ | patnī-vantaḥ | vaṣaṭ-kṛṭāḥ