Sukta 8.24
इन्द्र यथा ह्यस्ति तेऽपरीतं नृतो शवः । अमृक्ता रातिः पुरुहूत दाशुषे ॥
इन्द्र॒ यथा॒ ह्यस्ति॒ तेऽप॑रीतं नृतो॒ शव॑: । अमृ॑क्ता रा॒तिः पु॑रुहूत दा॒शुषे॑ ॥
índra yáthā hí ásti te aparī́taṃ nṛtó śávaḥ | ámṛktā rātíḥ puruhūta dāśúṣe ||
Indra, since your manly force is indeed unbounded, so too your gift is unwithheld—O much-invoked—toward the one who offers and gives himself in the sacrifice.
इन्द्र॑ । यथा॑ । हि । अस्ति॑ । ते॒ । अप॑रिऽइतम् । नृ॒तो॒ इति॑ । शवः॑ । अमृ॑क्ता । रा॒तिः । पु॒रु॒ऽहू॒त॒ । दा॒शुषे॑ ॥इन्द्र । यथा । हि । अस्ति । ते । अपरिइतम् । नृतो इति । शवः । अमृक्ता । रातिः । पुरुहूत । दाशुषे ॥indra | yathā | hi | asti | te | apari-itam | nṛto iti | śavaḥ | amṛktā | rātiḥ | puru-hūta | dāśuṣe