Sukta 8.24
वयं ते अस्य वृत्रहन्विद्याम शूर नव्यसः । वसोः स्पार्हस्य पुरुहूत राधसः ॥
व॒यं ते॑ अ॒स्य वृ॑त्रहन्वि॒द्याम॑ शूर॒ नव्य॑सः । वसो॑: स्पा॒र्हस्य॑ पुरुहूत॒ राध॑सः ॥
vayáṃ te asyá vṛtrahan vidyā́ma śūra návyasaḥ | vásōḥ spārhásya puruhūta rā́dhasaḥ ||
We would know and possess, O Vṛtra-slayer, O Hero, these ever-new forms of your desirable riches—O much-invoked, the plenitude of your grace.
व॒यम् । ते॒ । अ॒स्य । वृ॒त्र॒ऽह॒न् । वि॒द्याम॑ । शू॒र॒ । नव्य॑सः । वसोः॑ । स्पा॒र्हस्य॑ । पु॒रु॒ऽहू॒त॒ । राध॑सः ॥वयम् । ते । अस्य । वृत्रहन् । विद्याम । शूर । नव्यसः । वसोः । स्पार्हस्य । पुरुहूत । राधसः ॥vayam | te | asya | vṛtra-han | vidyāma | śūra | navyasaḥ | vasoḥ | spārhasya | puru-hūta | rādhasaḥ