Sukta 8.24
न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः । न परिबाधो हरिवो गविष्टिषु ॥
न ते॑ स॒व्यं न दक्षि॑णं॒ हस्तं॑ वरन्त आ॒मुर॑: । न प॑रि॒बाधो॑ हरिवो॒ गवि॑ष्टिषु ॥
ná te savyáṃ ná dákṣiṇaṃ hástaṃ varanta āmúraḥ | ná paribā́dho harivo gáviṣṭiṣu ||
No dull inertia can restrain your left hand or your right, nor can any enclosing pressure hem you in, O lord of the tawny steeds, in the quest for the Rays of Light.
न । ते॒ । स॒व्यम् । न । दक्षि॑णम् । हस्त॑म् । व॒र॒न्ते॒ । आ॒ऽमुरः॑ । न । प॒रि॒ऽबाधः॑ । ह॒रि॒ऽवः॒ । गोऽइ॑ष्टिषु ॥न । ते । सव्यम् । न । दक्षिणम् । हस्तम् । वरन्ते । आमुरः । न । परिबाधः । हरिवः । गोइष्टिषु ॥na | te | savyam | na | dakṣiṇam | hastam | varante | āmuraḥ | na | pari-bādhaḥ | hari-vaḥ | go--iṣṭiṣu