Sukta 8.24
स नः स्तवान आ भर रयिं चित्रश्रवस्तमम् । निरेके चिद्यो हरिवो वसुर्ददिः ॥
स न॒: स्तवा॑न॒ आ भ॑र र॒यिं चि॒त्रश्र॑वस्तमम् । नि॒रे॒के चि॒द्यो ह॑रिवो॒ वसु॑र्द॒दिः ॥
sá naḥ stávāna ā́ bhara rayíṃ citráśravastamam | niréke cid yó harivo vásur dadíḥ ||
He—praised by us—bring to us the rayi, the rich plenitude most radiant in its fame. Even in scantness, O you of the tawny steeds, you are the giver of the true treasure.
सः । नः॒ । स्तवा॑नः । आ । भ॒र॒ । र॒यिम् । चि॒त्रश्र॑वःऽतमम् । नि॒रे॒के । चि॒त् । यः । ह॒रि॒ऽवः॒ । वसुः॑ । द॒दिः ॥सः । नः । स्तवानः । आ । भर । रयिम् । चित्रश्रवःतमम् । निरेके । चित् । यः । हरिवः । वसुः । ददिः ॥saḥ | naḥ | stavānaḥ | ā | bhara | rayim | citraśravaḥ-tamam | nireke | cit | yaḥ | hari-vaḥ | vasuḥ | dadiḥ