Sukta 8.24
आ नार्यस्य दक्षिणा व्यश्वाँ एतु सोमिनः । स्थूरं च राधः शतवत्सहस्रवत् ॥
आ ना॒र्यस्य॒ दक्षि॑णा॒ व्य॑श्वाँ एतु सो॒मिन॑: । स्थू॒रं च॒ राध॑: श॒तव॑त्स॒हस्र॑वत् ॥
ā́ nā́ryasya dákṣiṇā vyàśvāṃ etu somínaḥ | sthūráṃ ca rā́dhaḥ śatávat sahásravat ||
Let the offering-gift of the noble one come to the Soma-pressers, rich in wide-ranging energies; and let the firm abundance arrive—hundredfold, thousandfold—in fullness of being.
आ । ना॒र्यस्य॑ । दक्षि॑णा । विऽअ॑श्वान् । ए॒तु॒ । सो॒मिनः॑ । स्थू॒रम् । च॒ । राधः॑ । श॒तऽव॑त् । स॒हस्र॑ऽवत् ॥आ । नार्यस्य । दक्षिणा । विअश्वान् । एतु । सोमिनः । स्थूरम् । च । राधः । शतवत् । सहस्रवत् ॥ā | nāryasya | dakṣiṇā | vi-aśvān | etu | sominaḥ | sthūram | ca | rādhaḥ | śata-vat | sahasra-vat