Sukta 8.24
यत्त्वा पृच्छादीजानः कुहया कुहयाकृते । एषो अपश्रितो वलो गोमतीमव तिष्ठति ॥
यत्त्वा॑ पृ॒च्छादी॑जा॒नः कु॑ह॒या कु॑हयाकृते । ए॒षो अप॑श्रितो व॒लो गो॑म॒तीमव॑ तिष्ठति ॥
yát tvā pṛcchā́d ījānáḥ kuhayā́ kuhayākṛte | eṣó apaśritó való gomatī́m áva tiṣṭhati ||
When the sacrificer asks you, O master of hidden workings, by a secret way of secret formation—then this Vala, withdrawn and sheltered, stands below, holding back the luminous herds of knowledge.
यत् । त्वा॒ । पृ॒च्छात् । ई॒जा॒नः । कु॒ह॒या । कु॒ह॒या॒ऽकृ॒ते॒ । ए॒षः । अप॑ऽश्रितः । व॒लः । गो॒ऽम॒तीम् । अव॑ । ति॒ष्ठ॒ति॒ ॥यत् । त्वा । पृच्छात् । ईजानः । कुहया । कुहयाकृते । एषः । अपश्रितः । वलः । गोमतीम् । अव । तिष्ठति ॥yat | tvā | pṛcchāt | ījānaḥ | kuhayā | kuhayākṛte | eṣaḥ | apa-śritaḥ | valaḥ | go--matīm | ava | tiṣṭhati