Sukta 8.24
स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम् । अर्यो गयं मंहमानं वि दाशुषे ॥
स्तु॒हीन्द्रं॑ व्यश्व॒वदनू॑र्मिं वा॒जिनं॒ यम॑म् । अ॒र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे॑ ॥
stuhī́ndraṃ vyaśvavád anū́rmiṃ vājínaṃ yámam | aryó gáyaṃ maṃhámānaṃ ví dāśúṣe ||
Praise Indra, rich in steed-force, un-waved by obstruction, the bearer of plenitude and the restrainer of disorder; the noble power who enlarges the life-force and distributes it widely to the giver of offering.
स्तु॒हि । इन्द्र॑म् । व्य॒श्व॒ऽवत् । अनू॑र्मिम् । वा॒जिन॑म् । यम॑म् । अ॒र्यः । गय॑म् । मंह॑मानम् । वि । दा॒शुषे॑ ॥स्तुहि । इन्द्रम् । व्यश्ववत् । अनूर्मिम् । वाजिनम् । यमम् । अर्यः । गयम् । मंहमानम् । वि । दाशुषे ॥stuhi | indram | vyaśva-vat | anūrmim | vājinam | yamam | aryaḥ | gayam | maṃhamānam | vi | dāśuṣe