Sukta 8.24
अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः । घृतात्स्वादीयो मधुनश्च वोचत ॥
अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वच॑: । घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत ॥
agó-rudhāya gavíṣe dyukṣā́ya dasmyáṃ vácaḥ | ghṛtā́t svā́dīyo mádhunaś ca vocata ||
Speak the wonder-working word to him who is unobstructed, who seeks the rays of Light and the luminous increase; speak what is sweeter than clarified ghee and honey—speech that nourishes the inner ascent.
अगो॑ऽरुधाय । गो॒ऽइषे॑ । द्यु॒क्षाय॑ । दस्म्य॑म् । वचः॑ । घृ॒तात् । स्वादी॑यः । मधु॑नः । च॒ । वो॒च॒त॒ ॥अगोरुधाय । गोइषे । द्युक्षाय । दस्म्यम् । वचः । घृतात् । स्वादीयः । मधुनः । च । वोचत ॥ago--rudhāya | go--iṣe | dyukṣāya | dasmyam | vacaḥ | ghṛtāt | svādīyaḥ | madhunaḥ | ca | vocata