Sukta 8.24
तं वो वाजानां पतिमहूमहि श्रवस्यवः । अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥
तं वो॒ वाजा॑नां॒ पति॒महू॑महि श्रव॒स्यव॑: । अप्रा॑युभिर्य॒ज्ञेभि॑र्वावृ॒धेन्य॑म् ॥
táṃ vo vājā́nāṃ pátiṃ ahūmahi śravasyávaḥ | aprā́yubhir yajñébhir vāvṛdhényam ||
Him, the lord of plenitudes of force, we call—seekers of the soul’s fame; with undiminishing sacrifices we would increase the ever-growing power within.
तम् । वः॒ । वाजा॑नाम् । पति॑म् । अहू॑महि । श्र॒व॒स्यवः॑ । अप्रा॑युऽभिः । य॒ज्ञेभिः॑ । व॒वृ॒धेन्य॑म् ॥तम् । वः । वाजानाम् । पतिम् । अहूमहि । श्रवस्यवः । अप्रायुभिः । यज्ञेभिः । ववृधेन्यम् ॥tam | vaḥ | vājānām | patim | ahūmahi | śravasyavaḥ | aprāyu-bhiḥ | yajñebhiḥ | vavṛdhenyam