Sukta 8.24
नह्यङ्ग पुरा चन जज्ञे वीरतरस्त्वत् । नकी राया नैवथा न भन्दना ॥
न॒ह्य१॒॑ङ्ग पु॒रा च॒न ज॒ज्ञे वी॒रत॑र॒स्त्वत् । नकी॑ रा॒या नैवथा॒ न भ॒न्दना॑ ॥
náhy àṅga purā́ caná jajñé vī́rataras tvát | nákī rāyā́ ná eváthā ná bhandanā́ ||
Surely, even from of old, none has been born more heroic than you; none equals you in plenitude of being—neither in any manner, nor by any breaking-force.
न॒हि । अ॒ङ्ग । पु॒रा । च॒न । ज॒ज्ञे । वी॒रऽत॑रः । त्वत् । नकिः॑ । रा॒या । न । ए॒वऽथा॑ । न । भ॒न्दना॑ ॥नहि । अङ्ग । पुरा । चन । जज्ञे । वीरतरः । त्वत् । नकिः । राया । न । एवथा । न । भन्दना ॥nahi | aṅga | purā | cana | jajñe | vīra-taraḥ | tvat | nakiḥ | rāyā | na | eva-thā | na | bhandanā