Sukta 8.24
नह्यङ्ग नृतो त्वदन्यं विन्दामि राधसे । राये द्युम्नाय शवसे च गिर्वणः ॥
न॒ह्य१॒॑ङ्ग नृ॑तो॒ त्वद॒न्यं वि॒न्दामि॒ राध॑से । रा॒ये द्यु॒म्नाय॒ शव॑से च गिर्वणः ॥
náhy àṅga nṛ́to tvád anyáṃ vindā́mi rā́dhase | rāyé dyumnā́ya śávase ca girvaṇaḥ ||
Surely, O Lord of the human march, I find none other than you for the giving of effective plenitude—of inner riches, of luminous victory, and of the soul’s force, O accepter of the chant.
न॒हि । अ॒ङ्ग । नृ॒तो॒ इति॑ । त्वत् । अ॒न्यम् । वि॒न्दामि॑ । राध॑से । रा॒ये । द्यु॒म्नाय॑ । शव॑से । च॒ । गि॒र्व॒णः॒ ॥नहि । अङ्ग । नृतो इति । त्वत् । अन्यम् । विन्दामि । राधसे । राये । द्युम्नाय । शवसे । च । गिर्वणः ॥nahi | aṅga | nṛto iti | tvat | anyam | vindāmi | rādhase | rāye | dyumnāya | śavase | ca | girvaṇaḥ