Sukta 8.23
अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम् । तमया वाचा गृणे तमु वः स्तुषे ॥
अ॒ग्निं व॑: पू॒र्व्यं हु॑वे॒ होता॑रं चर्षणी॒नाम् । तम॒या वा॒चा गृ॑णे॒ तमु॑ वः स्तुषे ॥
agníṃ vaḥ pū́rvyaṃ huve hótāraṃ carṣaṇīnā́m | tám ayā́ vācā́ gṛṇe tám u vaḥ stuṣe ||
I call for you the ancient Agni, the priest of the peoples. Him I utter with this inspired speech; him indeed I praise for you—so that the inner priest may take his seat and lead the sacrifice of the soul.
अ॒ग्निम् । वः॒ । पू॒र्व्य॑म् । हु॒वे॒ । होता॑रम् । च॒र्ष॒णी॒नाम् । तम् । अ॒या । वा॒चा । गृ॒णे॒ । तम् । ऊँ॒ इति॑ । वः॒ । स्तु॒षे॒ ॥अग्निम् । वः । पूर्व्यम् । हुवे । होतारम् । चर्षणीनाम् । तम् । अया । वाचा । गृणे । तम् । ऊँ इति । वः । स्तुषे ॥agnim | vaḥ | pūrvyam | huve | hotāram | carṣaṇīnām | tam | ayā | vācā | gṛṇe | tam | oṃ iti | vaḥ | stuṣe