Sukta 8.23
उदस्य शोचिरस्थाद्दीदियुषो व्यजरम् । तपुर्जम्भस्य सुद्युतो गणश्रियः ॥
उद॑स्य शो॒चिर॑स्थाद्दीदि॒युषो॒ व्य१॒॑जर॑म् । तपु॑र्जम्भस्य सु॒द्युतो॑ गण॒श्रिय॑: ॥
úd asya śocír asthād dīdiyúṣo vy-àjáram | tápuḥ-jambhasya su-dyúto gaṇa-śríyaḥ ||
Up rose his flame, shining out, spreading the unaging radiance. The luminous ones, the host in splendor, are the bright glory of the burning force that crushes what resists.
उत् । अ॒स्य॒ । शो॒चिः । अ॒स्था॒त् । दी॒दि॒युषः॑ । वि । अ॒जर॑म् । तपुः॑ऽजम्भस्य । सु॒ऽद्युतः॑ । ग॒ण॒ऽश्रियः॑ ॥उत् । अस्य । शोचिः । अस्थात् । दीदियुषः । वि । अजरम् । तपुःजम्भस्य । सुद्युतः । गणश्रियः ॥ut | asya | śociḥ | asthāt | dīdiyuṣaḥ | vi | ajaram | tapuḥ-jambhasya | su-dyutaḥ | gaṇa-śriyaḥ