Sukta 8.23
येषामाबाध ऋग्मिय इषः पृक्षश्च निग्रभे । उपविदा वह्निर्विन्दते वसु ॥
येषा॑माबा॒ध ऋ॒ग्मिय॑ इ॒षः पृ॒क्षश्च॑ नि॒ग्रभे॑ । उ॒प॒विदा॒ वह्नि॑र्विन्दते॒ वसु॑ ॥
yéṣām ā-bādhá ṛgmíya iṣáḥ pṛkṣáś ca ni-grábhē | upa-vidā́ váhniḥ vindate vásu ||
Those in whom the inspired chant breaks open the obstruction, and the powers of increase and the nourishing fullness are held in right grasp—by near-knowledge the carrier of the offering finds the true wealth of being.
येषा॑म् । आ॒ऽबा॒धः । ऋ॒ग्मियः॑ । इ॒षः । पृ॒क्षः । च॒ । नि॒ऽग्रभे॑ । उ॒प॒ऽविदा॑ । वह्निः॑ । वि॒न्द॒ते॒ । वसु॑ ॥येषाम् । आबाधः । ऋग्मियः । इषः । पृक्षः । च । निग्रभे । उपविदा । वह्निः । विन्दते । वसु ॥yeṣām | ābādhaḥ | ṛgmiyaḥ | iṣaḥ | pṛkṣaḥ | ca | ni-grabhe | upa-vidā | vahniḥ | vindate | vasu