Sukta 8.23
अतिथिं मानुषाणां सूनुं वनस्पतीनाम् । विप्रा अग्निमवसे प्रत्नमीळते ॥
अति॑थिं॒ मानु॑षाणां सू॒नुं वन॒स्पती॑नाम् । विप्रा॑ अ॒ग्निमव॑से प्र॒त्नमी॑ळते ॥
átithiṃ mā́nuṣāṇāṃ sūnúṃ vanaspátīnām | víprā agním ávase pratnám īḷate ||
The seers adore Agni for protection and aid—Agni, the guest of human beings, the child of the lords of the wood—ancient in his power of guidance.
अति॑थिम् । मानु॑षाणाम् । सू॒नुम् । वन॒स्पती॑नाम् । विप्राः॑ । अ॒ग्निम् । अव॑से । प्र॒त्नम् । ई॒ळ॒ते॒ ॥अतिथिम् । मानुषाणाम् । सूनुम् । वनस्पतीनाम् । विप्राः । अग्निम् । अवसे । प्रत्नम् । ईळते ॥atithim | mānuṣāṇām | sūnum | vanaspatīnām | viprāḥ | agnim | avase | pratnam | īḷate