Sukta 8.23
यो अस्मै हव्यदातिभिराहुतिं मर्तोऽविधत् । भूरि पोषं स धत्ते वीरवद्यशः ॥
यो अ॑स्मै ह॒व्यदा॑तिभि॒राहु॑तिं॒ मर्तोऽवि॑धत् । भूरि॒ पोषं॒ स ध॑त्ते वी॒रव॒द्यश॑: ॥
yó asmai havyádātibhir ā́hutiṃ márto’vídhat | bhū́ri póṣaṃ sá dhatte vīrávad yáśaḥ ||
Whoever among mortals offers to him the oblation with gifts fit for the offering, he gathers to himself abundant increase—an increase that becomes heroic power and luminous renown.
यः । अ॒स्मै॒ । ह॒व्यदा॑तिऽभिः । आऽहु॑तिम् । मर्तः॑ । अवि॑धत् । भूरि॑ । पोष॑म् । सः । ध॒त्ते॒ । वी॒रऽव॑त् । यशः॑ ॥यः । अस्मै । हव्यदातिभिः । आहुतिम् । मर्तः । अविधत् । भूरि । पोषम् । सः । धत्ते । वीरवत् । यशः ॥yaḥ | asmai | havyadāti-bhiḥ | āhutim | martaḥ | avidhat | bhūri | poṣam | saḥ | dhatte | vīra-vat | yaśaḥ