Sukta 8.23
प्रथमं जातवेदसमग्निं यज्ञेषु पूर्व्यम् । प्रति स्रुगेति नमसा हविष्मती ॥
प्र॒थ॒मं जा॒तवे॑दसम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम् । प्रति॒ स्रुगे॑ति॒ नम॑सा ह॒विष्म॑ती ॥
prathamáṃ jātávedasam agníṃ yajñéṣu pū́rvyam | práti srúg eti námasā havíṣmatī ||
First, toward Agni Jātavedas, the Ancient One present in the sacrifices, the offering-ladle moves in reverence, carrying the oblation—so the inner act approaches the knower-of-births with consecrated substance.
प्र॒थ॒मम् । जा॒तऽवे॑दसम् । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् । प्रति॑ । स्रुक् । ए॒ति॒ । नम॑सा । ह॒विष्म॑ती ॥प्रथमम् । जातवेदसम् । अग्निम् । यज्ञेषु । पूर्व्यम् । प्रति । स्रुक् । एति । नमसा । हविष्मती ॥prathamam | jāta-vedasam | agnim | yajñeṣu | pūrvyam | prati | sruk | eti | namasā | haviṣmatī