Sukta 8.23
विश्वे हि त्वा सजोषसो देवासो दूतमक्रत । श्रुष्टी देव प्रथमो यज्ञियो भुवः ॥
विश्वे॒ हि त्वा॑ स॒जोष॑सो दे॒वासो॑ दू॒तमक्र॑त । श्रु॒ष्टी दे॑व प्रथ॒मो य॒ज्ञियो॑ भुवः ॥
víśve hi tvā sajóṣaso devā́so dūtám akrata | śruṣṭī deva prathamó yajñíyo bhuvaḥ ||
For all the gods in one accord made thee their messenger. Hear, O god: become the first, the truly sacrificial, the foremost power in our offering and our ascent.
विश्वे॑ । हि । त्वा॒ । स॒ऽजोष॑सः । दे॒वासः॑ । दू॒तम् । अक्र॑त । श्रु॒ष्टी । दे॒व॒ । प्र॒थ॒मः । य॒ज्ञियः॑ । भु॒वः॒ ॥विश्वे । हि । त्वा । सजोषसः । देवासः । दूतम् । अक्रत । श्रुष्टी । देव । प्रथमः । यज्ञियः । भुवः ॥viśve | hi | tvā | sa-joṣasaḥ | devāsaḥ | dūtam | akrata | śruṣṭī | deva | prathamaḥ | yajñiyaḥ | bhuvaḥ