Sukta 8.23
उशना काव्यस्त्वा नि होतारमसादयत् । आयजिं त्वा मनवे जातवेदसम् ॥
उ॒शना॑ का॒व्यस्त्वा॒ नि होता॑रमसादयत् । आ॒य॒जिं त्वा॒ मन॑वे जा॒तवे॑दसम् ॥
uśánā kāvyás tvā ni hótāram asādayat | āyájiṃ tvā mánave jātávedasam ||
Uśanā Kāvya set thee down as the invoking priest; he made thee the true sacrificer for Manu, O Jātavedas—knower of all births—so that the human may be led rightly in the offering.
उ॒शना॑ । का॒व्यः । त्वा॒ । नि । होता॑रम् । अ॒सा॒द॒य॒त् । आ॒ऽय॒जिम् । त्वा॒ । मन॑वे । जा॒तऽवे॑दसम् ॥उशना । काव्यः । त्वा । नि । होतारम् । असादयत् । आयजिम् । त्वा । मनवे । जातवेदसम् ॥uśanā | kāvyaḥ | tvā | ni | hotāram | asādayat | āyajim | tvā | manave | jāta-vedasam