Sukta 8.23
व्यश्वस्त्वा वसुविदमुक्षण्युरप्रीणादृषिः । महो राये तमु त्वा समिधीमहि ॥
व्य॑श्वस्त्वा वसु॒विद॑मुक्ष॒ण्युर॑प्रीणा॒दृषि॑: । म॒हो रा॒ये तमु॑ त्वा॒ समि॑धीमहि ॥
vyàśvas tvā vasuvídam ukṣaṇyúr aprīṇād ṛ́ṣiḥ | mahó rāyé tám u tvā sám idhīmahi ||
Vyaśva the seer, desiring increase, has gladdened thee as the finder of plenitude; for the great richness we kindle thee wholly—yes, thee—within our being.
विऽअ॑श्वः । त्वा॒ । व॒सु॒ऽविद॑म् । उ॒क्ष॒ण्युः । अ॒प्री॒णा॒त् । ऋषिः॑ । म॒हः । रा॒ये । तम् । ऊँ॒ इति॑ । त्वा॒ । सम् । इ॒धी॒म॒हि॒ ॥विअश्वः । त्वा । वसुविदम् । उक्षण्युः । अप्रीणात् । ऋषिः । महः । राये । तम् । ऊँ इति । त्वा । सम् । इधीमहि ॥vi-aśvaḥ | tvā | vasu-vidam | ukṣaṇyuḥ | aprīṇāt | ṛṣiḥ | mahaḥ | rāye | tam | oṃ iti | tvā | sam | idhīmahi