Sukta 8.23
न तस्य मायया चन रिपुरीशीत मर्त्यः । यो अग्नये ददाश हव्यदातिभिः ॥
न तस्य॑ मा॒यया॑ च॒न रि॒पुरी॑शीत॒ मर्त्य॑: । यो अ॒ग्नये॑ द॒दाश॑ ह॒व्यदा॑तिभिः ॥
ná tásya māyáyā cana ripúr ī́śīta mártyaḥ | yó agnáye dadā́śa havyadā́tibhiḥ ||
No enemy can ever prevail over that mortal by any deception, who gives to Agni with the right offerings—acts of oblation that open the way for the divine exchange.
न । तस्य॑ । मा॒यया॑ । च॒न । रि॒पुः । ई॒शी॒त॒ । मर्त्यः॑ । यः । अ॒ग्नये॑ । द॒दाश॑ । ह॒व्यदा॑तिऽभिः ॥न । तस्य । मायया । चन । रिपुः । ईशीत । मर्त्यः । यः । अग्नये । ददाश । हव्यदातिभिः ॥na | tasya | māyayā | cana | ripuḥ | īśīta | martyaḥ | yaḥ | agnaye | dadāśa | havyadāti-bhiḥ