Sukta 8.23
यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि । विश्वेदग्निः प्रति रक्षांसि सेधति ॥
यद्वा उ॑ वि॒श्पति॑: शि॒तः सुप्री॑तो॒ मनु॑षो वि॒शि । विश्वेद॒ग्निः प्रति॒ रक्षां॑सि सेधति ॥
yádvā u viśpátiḥ śitáḥ su-prī́to mánuṣo viśí | víśved agníḥ práti rákṣāṃsi sédhati ||
Whenever the lord of the people, keen and well-pleased, is established among the human clans, Agni indeed drives back all the hostile powers of distortion and darkness.
यत् । वै । ऊँ॒ इति॑ । वि॒श्पतिः॑ । शि॒तः । सुऽप्री॑तः । मनु॑षः । वि॒शि । विश्वा॑ । इत् । अ॒ग्निः । प्रति॑ । रक्षां॑सि । से॒ध॒ति॒ ॥यत् । वै । ऊँ इति । विश्पतिः । शितः । सुप्रीतः । मनुषः । विशि । विश्वा । इत् । अग्निः । प्रति । रक्षांसि । सेधति ॥yat | vai | oṃ iti | viśpatiḥ | śitaḥ | su-prītaḥ | manuṣaḥ | viśi | viśvā | it | agniḥ | prati | rakṣāṃsi | sedhati