Sukta 8.23
अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः । होता यो अस्ति विक्ष्वा यशस्तमः ॥
अच्छा॑ नो॒ अङ्गि॑रस्तमं य॒ज्ञासो॑ यन्तु सं॒यत॑: । होता॒ यो अस्ति॑ वि॒क्ष्वा य॒शस्त॑मः ॥
ácchā no aṅgíras-tamaṃ yajñā́sō yantu saṃ-yátāḥ | hótā yó ásti vikṣv ā́ yaśás-tamaḥ ||
Let our sacrifices, well-gathered, move toward the most Angiras-like—toward the priestly fire. He is the Hotṛ among the clans, the most glorious: may he come into our many fields of life and lead them into right order.
अच्छ॑ । नः॒ । अङ्गि॑रःऽतमम् । य॒ज्ञासः॑ । य॒न्तु॒ । स॒म्ऽयतः॑ । होता॑ । यः । अस्ति॑ । वि॒क्षु । आ । य॒शःऽत॑मः ॥अच्छ । नः । अङ्गिरःतमम् । यज्ञासः । यन्तु । सम्यतः । होता । यः । अस्ति । विक्षु । आ । यशःतमः ॥accha | naḥ | aṅgiraḥ-tamam | yajñāsaḥ | yantu | sam-yataḥ | hotā | yaḥ | asti | vikṣu | ā | yaśaḥ-tamaḥ