Sukta 8.22
आ हि रुहतमश्विना रथे कोशे हिरण्यये वृषण्वसू । युञ्जाथां पीवरीरिषः ॥
आ हि रु॒हत॑मश्विना॒ रथे॒ कोशे॑ हिर॒ण्यये॑ वृषण्वसू । यु॒ञ्जाथां॒ पीव॑री॒रिष॑: ॥
ā́ hí rúhatam aśvinā ráthe kóśe hiraṇyáye vṛṣaṇvasū | yuñjā́thāṃ pī́varīr íṣaḥ ||
Ascend indeed, O Aśvins, your chariot with its golden seat, O you rich in potent good. Yoke for yourselves the full, abundant impulsions of nourishment—powers that widen the being and sustain the journey.
आ । हि । रु॒हत॑म् । अ॒श्वि॒ना॒ । रथे॑ । कोशे॑ । हि॒र॒ण्यये॑ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । यु॒ञ्जाथा॑म् । पीव॑रीः । इषः॑ ॥आ । हि । रुहतम् । अश्विना । रथे । कोशे । हिरण्यये । वृषण्वसू इति वृषण्वसू । युञ्जाथाम् । पीवरीः । इषः ॥ā | hi | ruhatam | aśvinā | rathe | kośe | hiraṇyaye | vṛṣaṇvasūitivṛṣaṇ-vasū | yuñjāthām | pīvarīḥ | iṣaḥ