Sukta 8.22
याभिः पक्थमवथो याभिरध्रिगुं याभिर्बभ्रुं विजोषसम् । ताभिर्नो मक्षू तूयमश्विना गतं भिषज्यतं यदातुरम् ॥
याभि॑: प॒क्थमव॑थो॒ याभि॒रध्रि॑गुं॒ याभि॑र्ब॒भ्रुं विजो॑षसम् । ताभि॑र्नो म॒क्षू तूय॑मश्वि॒ना ग॑तं भिष॒ज्यतं॒ यदातु॑रम् ॥
yā́bhiḥ pakthám avatho yā́bhir ádhriguṃ yā́bhir babhrúṃ víjoṣasam | tā́bhir no makṣū́ tū́yam aśvinā gatam bhiṣajyátam yád ātúram ||
With those powers by which you helped Paktha, by which you helped Adhrigu, by which you helped Babhrū who was deprived of joy—by those same forces come swiftly to us, O Aśvins, and heal whatever in us is afflicted and out of harmony.
याभिः॑ । प॒क्थम् । अव॑थः । याभिः॑ । अध्रि॑ऽगुम् । याभिः॑ । ब॒भ्रुम् । विऽजो॑षसम् । ताभिः॑ । नः॒ । म॒क्षु । तूय॑म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । भि॒ष॒ज्यत॑म् । यत् । आतु॑रम् ॥याभिः । पक्थम् । अवथः । याभिः । अध्रिगुम् । याभिः । बभ्रुम् । विजोषसम् । ताभिः । नः । मक्षु । तूयम् । अश्विना । आ । गतम् । भिषज्यतम् । यत् । आतुरम् ॥yābhiḥ | paktham | avathaḥ | yābhiḥ | adhri-gum | yābhiḥ | babhrum | vi-joṣasam | tābhiḥ | naḥ | makṣu | tūyam | aśvinā | ā | gatam | bhiṣajyatam | yat | āturam