Sukta 8.22
युवो रथस्य परि चक्रमीयत ईर्मान्यद्वामिषण्यति । अस्माँ अच्छा सुमतिर्वां शुभस्पती आ धेनुरिव धावतु ॥
यु॒वो रथ॑स्य॒ परि॑ च॒क्रमी॑यत ई॒र्मान्यद्वा॑मिषण्यति । अ॒स्माँ अच्छा॑ सुम॒तिर्वां॑ शुभस्पती॒ आ धे॒नुरि॑व धावतु ॥
yuvó ráthasya pári cakrám ī́yatē ī́rmā́ anyád vām iṣaṇyati | asmā́n ácchā sumatír vāṃ śubhaspatī ā́ dhenúr iva dhāvatu ||
Round your chariot-wheel it moves; another power of yours urges it on. Toward us may your right-minded grace, O lords of splendour, run like a cow to her calf—swift, nourishing, and sure.
यु॒वः । रथ॑स्य । परि॑ । च॒क्रम् । ई॒य॒ते॒ । ई॒र्मा । अ॒न्यत् । वा॒म् । इ॒ष॒ण्य॒ति॒ । अ॒स्मान् । अच्छ॑ । सु॒ऽम॒तिः । वा॒म् । शु॒भः॒ । प॒ती॒ इति॑ । आ । धे॒नुःऽइ॑व । धा॒व॒तु॒ ॥युवः । रथस्य । परि । चक्रम् । ईयते । ईर्मा । अन्यत् । वाम् । इषण्यति । अस्मान् । अच्छ । सुमतिः । वाम् । शुभः । पती इति । आ । धेनुःइव । धावतु ॥yuvaḥ | rathasya | pari | cakram | īyate | īrmā | anyat | vām | iṣaṇyati | asmān | accha | su-matiḥ | vām | śubhaḥ | patī iti | ā | dhenuḥ-iva | dhāvatu