Sukta 8.22
रथो यो वां त्रिवन्धुरो हिरण्याभीशुरश्विना । परि द्यावापृथिवी भूषति श्रुतस्तेन नासत्या गतम् ॥
रथो॒ यो वां॑ त्रिवन्धु॒रो हिर॑ण्याभीशुरश्विना । परि॒ द्यावा॑पृथि॒वी भूष॑ति श्रु॒तस्तेन॑ नास॒त्या ग॑तम् ॥
rátho yó vāṃ tri-vandhuró híraṇyābhīśur aśvinā | pári dyā́vā-pṛthivī́ bhū́ṣati śrutás téna nāsatyā́ ā́ gátam ||
That chariot of yours, three-seated, with golden reins, O Aśvins, moves in beauty around Heaven and Earth. Heard is it—so with that, O Nāsatyas, come to us.
रथः॑ । यः । वा॒म् । त्रि॒ऽव॒न्धु॒रः । हिर॑ण्यऽअभीशुः । अ॒श्वि॒ना॒ । परि॑ । द्यावा॑पृथि॒वी इति॑ । भूष॑ति । श्रु॒तः । तेन॑ । ना॒स॒त्या॒ । आ । ग॒त॒म् ॥रथः । यः । वाम् । त्रिवन्धुरः । हिरण्यअभीशुः । अश्विना । परि । द्यावापृथिवी इति । भूषति । श्रुतः । तेन । नासत्या । आ । गतम् ॥rathaḥ | yaḥ | vām | tri-vandhuraḥ | hiraṇya-abhīśuḥ | aśvinā | pari | dyāvāpṛth ivī iti | bhūṣati | śrutaḥ | tena | nāsatyā | ā | gatam