Sukta 8.22
ताविद्दोषा ता उषसि शुभस्पती ता यामन्रुद्रवर्तनी । मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्रावति ख्यतम् ॥
ताविद्दो॒षा ता उ॒षसि॑ शु॒भस्पती॒ ता याम॑न्रु॒द्रव॑र्तनी । मा नो॒ मर्ता॑य रि॒पवे॑ वाजिनीवसू प॒रो रु॑द्रा॒वति॑ ख्यतम् ॥
tā́v id doṣā́ tā́ uṣási śubhás patī tā́ yā́man rudrávarttanī | mā́ no mártāya ripáve vājinīvasū paráḥ rudrā́v áti khyatam ||
Those two in the night, those two at the dawn—lords of luminous beauty—those two moving on their fierce, impelling tracks. O you rich in victorious force, do not betray us to the mortal enemy; pass beyond and outstrip the wrathful obstructers, and make a clear distance from all hostility.
तौ । इत् । दो॒षा । तौ । उ॒षसि॑ । शु॒भः । पती॒ इति॑ । ता । याम॑न् । रु॒द्रव॑र्तनी॒ इति॑ रु॒द्रऽव॑र्तनी । मा । नः॒ । मर्ता॑य । रि॒पवे॑ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । प॒रः । रु॒द्रौ॒ । अति॑ । ख्य॒त॒म् ॥तौ । इत् । दोषा । तौ । उषसि । शुभः । पती इति । ता । यामन् । रुद्रवर्तनी इति रुद्रवर्तनी । मा । नः । मर्ताय । रिपवे । वाजिनीवसू इति वाजिनीवसू । परः । रुद्रौ । अति । ख्यतम् ॥tau | it | doṣā | tau | uṣasi | śubhaḥ | patī iti | tā | yāman | rudravartanī itirudra-vartanī | mā | naḥ | martāya | ripave | vājinīvasūitivājinī-vasū | paraḥ | rudrau | ati | khyatam