Sukta 8.22
ताविदा चिदहानां तावश्विना वन्दमान उप ब्रुवे । ता उ नमोभिरीमहे ॥
तावि॒दा चि॒दहा॑नां॒ ताव॒श्विना॒ वन्द॑मान॒ उप॑ ब्रुवे । ता उ॒ नमो॑भिरीमहे ॥
tā́v idā́ cíd áhānāṃ tā́v aśvinā vándamāna úpa bruve | tā́ u námo bhir īmahe ||
Those two—yes, even now in these days—those two Aśvins I address with adoration. Those two we seek to win by acts of reverence: the humble alignment that opens the way for their help.
तौ । इ॒दा । चि॒त् । अहा॑नाम् । तौ । अ॒श्विना॑ । वन्द॑मानः । उप॑ । ब्रु॒वे॒ । तौ । ऊँ॒ इति॑ । नमः॑ऽभिः । ई॒म॒हे॒ ॥तौ । इदा । चित् । अहानाम् । तौ । अश्विना । वन्दमानः । उप । ब्रुवे । तौ । ऊँ इति । नमःभिः । ईमहे ॥tau | idā | cit | ahānām | tau | aśvinā | vandamānaḥ | upa | bruve | tau | oṃ iti | namaḥ-bhiḥ | īmahe