Sukta 8.22
ताभिरा यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यम् । इषा मंहिष्ठा पुरुभूतमा नरा याभिः क्रिविं वावृधुस्ताभिरा गतम् ॥
ताभि॒रा या॑तं वृष॒णोप॑ मे॒ हवं॑ वि॒श्वप्सुं॑ वि॒श्ववा॑र्यम् । इ॒षा मंहि॑ष्ठा पुरु॒भूत॑मा नरा॒ याभि॒: क्रिविं॑ वावृ॒धुस्ताभि॒रा ग॑तम् ॥
tā́bhir ā́ yātaṃ vṛṣaṇópá me hávaṃ viśvápsuṃ viśvávāryam | iṣā́ maṃhíṣṭhā purubhū́tamā narā yā́bhiḥ kríviṃ vāvṛdhús tā́bhir ā́ gatam ||
With those powers come, O mighty ones, to my call—universal in action, universal in the desirable boons. By nourishment you are most bountiful, most manifold in becoming, O heroes; with the forces by which you increased Krivi, with those come here to us.
ताभिः॑ । आ । या॒त॒म् । वृ॒ष॒णा॒ । उप॑ । मे॒ । हव॑म् । वि॒श्वऽप्सु॑म् । वि॒श्वऽवा॑र्यम् । इ॒षा । मंहि॑ष्ठा । पु॒रु॒ऽभूत॑मा । न॒रा॒ । याभिः॑ । क्रिवि॑म् । व॒वृ॒धुः । ताभिः॑ । आ । ग॒त॒म् ॥ताभिः । आ । यातम् । वृषणा । उप । मे । हवम् । विश्वप्सुम् । विश्ववार्यम् । इषा । मंहिष्ठा । पुरुभूतमा । नरा । याभिः । क्रिविम् । ववृधुः । ताभिः । आ । गतम् ॥tābhiḥ | ā | yātam | vṛṣaṇā | upa | me | havam | viśva-psum | viśva-vāryam | iṣā | maṃhiṣṭhā | puru-bhūtamā | narā | yābhiḥ | krivim | vavṛdhuḥ | tābhiḥ | ā | gatam