Sukta 8.22
यदध्रिगावो अध्रिगू इदा चिदह्नो अश्विना हवामहे । वयं गीर्भिर्विपन्यवः ॥
यदध्रि॑गावो॒ अध्रि॑गू इ॒दा चि॒दह्नो॑ अ॒श्विना॒ हवा॑महे । व॒यं गी॒र्भिर्वि॑प॒न्यव॑: ॥
yád adhrígāvo adhrígū idā́ cíd áhno aśvinā hávām̐he | vayáṃ gī́rbhir vipanyávaḥ ||
Even if we are but Adhrigāvas, even Adhrigūs, still at this very time of day we call the Aśvins; for we are seekers of the illumining word, offering our hymns as instruments of awakening.
यत् । अध्रि॑ऽगावः । अध्रि॑गू॒ इत्यध्रि॑ऽगू । इ॒दा । चि॒त् । अह्नः॑ । अ॒श्विना॑ । हवा॑महे । व॒यम् । गीः॒ऽभिः । वि॒प॒न्यवः॑ ॥यत् । अध्रिगावः । अध्रिगू इत्यध्रिगू । इदा । चित् । अह्नः । अश्विना । हवामहे । वयम् । गीःभिः । विपन्यवः ॥yat | adhri-gāvaḥ | adhrigūity adhri-gū | idā | cit | ahnaḥ | aśvinā | havāmahe | vayam | gīḥ-bhiḥ | vipanyavaḥ