Sukta 8.21
सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे । अभि त्वामिन्द्र नोनुमः ॥
सीद॑न्तस्ते॒ वयो॑ यथा॒ गोश्री॑ते॒ मधौ॑ मदि॒रे वि॒वक्ष॑णे । अ॒भि त्वामि॑न्द्र नोनुमः ॥
sīdántas te váyo yáthā góśrīte mádhau madiré vivákṣaṇe | abhí tvām índra nonumaḥ ||
As thy powers settle within us—like the rays that come to rest in the cow-rich sweetness, in the intoxicating honey of discernment—so we press and urge ourselves toward thee, O Indra, for the awakening of the inner voice.
सीद॑न्तः । ते॒ । वयः॑ । य॒था॒ । गोऽश्री॑ते । मधौ॑ । म॒दि॒रे । वि॒वक्ष॑णे । अ॒भि । त्वाम् । इ॒न्द्र॒ । नो॒नु॒मः॒ ॥सीदन्तः । ते । वयः । यथा । गोश्रीते । मधौ । मदिरे । विवक्षणे । अभि । त्वाम् । इन्द्र । नोनुमः ॥sīdantaḥ | te | vayaḥ | yathā | go--śrīte | madhau | madire | vivakṣaṇe | abhi | tvām | indra | nonumaḥ