Sukta 8.21
वयं हि त्वा बन्धुमन्तमबन्धवो विप्रास इन्द्र येमिम । या ते धामानि वृषभ तेभिरा गहि विश्वेभिः सोमपीतये ॥
व॒यं हि त्वा॒ बन्धु॑मन्तमब॒न्धवो॒ विप्रा॑स इन्द्र येमि॒म । या ते॒ धामा॑नि वृषभ॒ तेभि॒रा ग॑हि॒ विश्वे॑भि॒: सोम॑पीतये ॥
vayáṃ hí tvā bandhu-mántam abandhávo víprāsa indra yemimá | yā́ te dhā́māni vṛṣabha tébhir ā́ gahi víśvebhiḥ sóma-pītaye ||
For we, though without other supports, hold to thee as the one full of true bonds; O Indra, we seers cleave to thee. O Bull of force, come with all thy stations and powers, to the drinking of Soma—enter with thy whole being into our offering and our ascent.
व॒यम् । हि । त्वा॒ । बन्धु॑ऽमन्तम् । अ॒ब॒न्धवः॑ । विप्रा॑सः । इ॒न्द्र॒ । ये॒मि॒म । या । ते॒ । धामा॑नि । वृ॒ष॒भ॒ । तेभिः॑ । आ । ग॒हि॒ । विश्वे॑भिः । सोम॑ऽपीतये ॥वयम् । हि । त्वा । बन्धुमन्तम् । अबन्धवः । विप्रासः । इन्द्र । येमिम । या । ते । धामानि । वृषभ । तेभिः । आ । गहि । विश्वेभिः । सोमपीतये ॥vayam | hi | tvā | bandhu-mantam | abandhavaḥ | viprāsaḥ | indra | yemima | yā | te | dhāmāni | vṛṣabha | tebhiḥ | ā | gahi | viśvebhiḥ | soma-pītaye