Sukta 8.21
उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् । त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥
उप॑ त्वा॒ कर्म॑न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धृ॒षत् । त्वामिद्ध्य॑वि॒तारं॑ ववृ॒महे॒ सखा॑य इन्द्र सान॒सिम् ॥
úpa tvā kármann ūtáye sá no yúvográs cakrāma yó dhṛṣát | tvā́m íd dhy avitā́raṃ vavṛmáhe sákhāya indra sānasím ||
To thee, in the work, for help, that young and formidable force in us has moved forward in daring; for it is thee alone we choose as the deliverer. O Indra, our comrade, bringer of gain, stand with us in the conquest.
उप॑ । त्वा॒ । कर्म॑न् । ऊ॒तये॑ । सः । नः॒ । युवा॑ । उ॒ग्रः । च॒का॒म॒ । यः । धृ॒षत् । त्वाम् । इत् । हि । अ॒वि॒तार॑म् । व॒वृ॒महे॑ । सखा॑यः । इ॒न्द्र॒ । सा॒न॒सिम् ॥उप । त्वा । कर्मन् । ऊतये । सः । नः । युवा । उग्रः । चकाम । यः । धृषत् । त्वाम् । इत् । हि । अवितारम् । ववृमहे । सखायः । इन्द्र । सानसिम् ॥upa | tvā | karman | ūtaye | saḥ | naḥ | yuvā | ugraḥ | cakāma | yaḥ | dhṛṣat | tvām | it | hi | avitāram | vavṛmahe | sakhāyaḥ | indra | sānasim