Sukta 8.21
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । वाजे चित्रं हवामहे ॥
व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तोऽव॒स्यव॑: । वाजे॑ चि॒त्रं ह॑वामहे ॥
vayám u tvā́m apūrvyá sthūráṃ na kác cid bháranto 'vasyávaḥ | vā́je citráṃ havāmahe ||
We, seeking thy protection, call thee—the ever-new—bearing (our offering) like a strong support that does not fail; and for the plenitude of force (vāja) we invoke thy bright and manifold power.
व॒यम् । ऊँ॒ इति॑ । त्वाम् । अ॒पू॒र्व्य॒ । स्थू॒रम् । न । कत् । चि॒त् । भर॑न्तः । अ॒व॒स्यवः॑ । वाजे॑ । चि॒त्रम् । ह॒वा॒म॒हे॒ ॥वयम् । ऊँ इति । त्वाम् । अपूर्व्य । स्थूरम् । न । कत् । चित् । भरन्तः । अवस्यवः । वाजे । चित्रम् । हवामहे ॥vayam | oṃ iti | tvām | apūrvya | sthūram | na | kat | cit | bharantaḥ | avasyavaḥ | vāje | citram | havāmahe