Sukta 8.21
अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि । युधेदापित्वमिच्छसे ॥
अ॒भ्रा॒तृ॒व्यो अ॒ना त्वमना॑पिरिन्द्र ज॒नुषा॑ स॒नाद॑सि । यु॒धेदा॑पि॒त्वमि॑च्छसे ॥
abhrātṛvyó anā́ tvám anā́pir índra januṣā́ sanā́d asi | yudhéd ā́pi-tvám icchase ||
Without rival-brother, without defect, O Indra, by birth thou art from of old; yet it is through battle that thou seekest closeness and belonging with us.
अ॒भ्रा॒तृ॒व्यः । अ॒ना । त्वम् । अना॑पिः । इ॒न्द्र॒ । ज॒नुषा॑ । स॒नात् । अ॒सि॒ । यु॒धा । इत् । आ॒पि॒ऽत्वम् । इ॒च्छ॒से॒ ॥अभ्रातृव्यः । अना । त्वम् । अनापिः । इन्द्र । जनुषा । सनात् । असि । युधा । इत् । आपित्वम् । इच्छसे ॥abhrātṛvyaḥ | anā | tvam | anāpiḥ | indra | januṣā | sanāt | asi | yudhā | it | āpi-tvam | icchase