Sukta 8.20
अच्युता चिद्वो अज्मन्ना नानदति पर्वतासो वनस्पतिः । भूमिर्यामेषु रेजते ॥
अच्यु॑ता चिद्वो॒ अज्म॒न्ना नान॑दति॒ पर्व॑तासो॒ वन॒स्पति॑: । भूमि॒र्यामे॑षु रेजते ॥
acyútā cid vo ájmann ā́ nānadati párvatāso vánaspátiḥ | bhū́mir yā́meṣu rejate ||
Even the unshakable things, at your rush, resound; the mountains and the lord of the forest cry out; the earth itself trembles in your courses—so mighty is the awakening you bring into the substance of our nature.
अच्यु॑ता । चि॒त् । वः॒ । अज्म॑न् । आ । नान॑दति । पर्व॑तासः । वन्चस्पतिः॑ । भूमिः॑ । यामे॑षु । रे॒ज॒ते॒ ॥अच्युता । चित् । वः । अज्मन् । आ । नानदति । पर्वतासः । वन्चस्पतिः । भूमिः । यामेषु । रेजते ॥acyutā | cit | vaḥ | ajman | ā | nānadati | parvatāsaḥ | vancaspatiḥ | bhūmiḥ | yāmeṣu | rejate